close
सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

BERJAYA शास्त्रीयलेखाः

BERJAYA
ऋग्वेदः

ऋग्वेदः सनातनधर्मस्य मूलग्रन्थः। चतुर्मुखब्रह्मणः पूर्वदिङ्मुखान्निस्सृत ऋग्वेदः। एतस्य १०१७ सूक्तानि सन्ति। पण्डितानां मतानुसारं ऋग्वेदस्य कालः ५,००० वर्षेभ्यः प्राक्। ज्ञानार्थकविद्धातोः निष्पन्नः वेदशब्दः। अपौरुषेयं वाक्यं वेदः इति सायणाचार्यः। इष्टानिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति सः वेदः इति भाष्यभूमिकायाम्। वेदः एव श्रुतिः आम्नायः आगमः इत्यादिः श्रूयते। ब्रह्मणः मुखात् निर्गतं वेदं चतुर्धा विभज्य कृष्ण्द्वैपायनः वेदव्यासः सञ्जातः। एवं वेदाः चत्वारः ऋग्-यजु-साम-अथर्वणः इति। ऋच्यते स्तूयते यया सा ऋक्। तादृशीनामृचां समूह एव ऋग्वेदः। यत्रार्थवशेन पादव्यवस्था सा ऋगिति मीमांसकाः। स ऋग्वेदः सूक्तमण्डलभेदेन द्विधा विभक्तः। (अधिकवाचनाय »)



BERJAYA आधुनिकलेखः

BERJAYA
भारतस्य राष्ट्रध्वजः

भारतस्य राष्ट्रध्वजः त्रिरङ्गः इति प्रसिद्धः। त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण अशोकचक्रेण सुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधित्वं करोति। राष्ट्रध्वजस्य परिकल्पना पिङ्गलि वेङ्कय्य-नामकेन देशभक्तेन कृता आसीत्। भारतस्वतन्त्रतादिनात् पञ्चविंशतिदिनेभ्यः पूर्वम् अर्थात् १९४७ तमस्य वर्षस्य 'जुलाई'-मासस्य द्वाविंशतितमे (२२/७/१९४७) दिनाङ्के भारतीयसंविधानसभा एनं ध्वजं राष्ट्रध्वजत्वेन स्व्यकरोत्। राष्ट्रध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः सन्ति। तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च अस्ति। ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे नीलवर्णीयम् अशोकचक्रं विद्यते। तस्य चक्रस्य चतुर्विंशतिः अराः (spokes) सन्ति। तस्य चक्रस्य व्यासः श्वेतपट्टिकायाः दीर्घतानुगुणं भवति। महात्मना प्रचारितेन खादि-वस्त्रेण निर्मितः राष्ट्रध्वजः एव सांविधानिकरीत्या मान्यः। कोऽपि रेशम-वस्त्रेण निर्मितस्य राष्ट्रध्वजस्य यदि उपयोगं कर्तुम् इच्छति, तर्हि कर्तुं शक्नोति। (अधिकवाचनाय »)




BERJAYA ज्ञायते किं भवता?

द्वादश ज्योतिर्लिङ्गानि, तेषां स्थलानि च -

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्
उज्जयिन्यां महाकालम् ओङ्कारममलेश्वरे
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतुमीतटे ।
हिमालये तु केदारं घृष्णेशं च शिवालये ॥



BERJAYA वार्ताः

संस्कृतवार्ताः
संस्कृतविकिपीडिया
  • उत्तराखण्ड-राज्ये संस्कृत-आयोगस्य स्थापना

​22 जुलाई 2026 तमे दिनाङ्के उत्तराखण्ड-राज्य-सर्वकारेण संस्कृत-भाषायाः प्रवर्धनाय 'संस्कृत-आयोगः' इति स्थापयितुं निर्णयः कृतः। अस्य आयोगस्य उद्देश्यं संस्कृत-शिक्षणस्य, अनुसन्धानस्य, प्राचीन-पाण्डुलिपीनां डिजिटल-करणस्य, भारतीय-ज्ञान-परम्परायाः तथा च एआई-क्षेत्रे संस्कृतस्य उपयोगस्य वर्धनम् अस्ति। मुख्यमन्त्रिणा पुष्कर-सिंह-धामिना 10 अगस्त 2026 पर्यन्तं विदूषां परामर्शः आहूतः।

​* प्रधानमन्त्रिणा एक्स-मञ्चे संस्कृत-सुभाषितं प्रेषितम्

​21 जुलाई 2026 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिणा नरेन्द्र-मोदिना एक्स-मञ्चे एकं संस्कृत-सुभाषितं प्रकाशितम्। अत्र तेन एकाग्रतायाः सङ्कल्प-शक्तेः च महत्त्वं प्रतिपादितम्। "एकाग्रताथ सङ्कल्पः स्नायुवद् वर्द्धनक्षमौ। नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥" इति श्लोकम् उद्धृत्य तेन स्पष्टं कृतं यत् निरन्तराभ्यासेन एव मनुष्यस्य सङ्कल्प-शक्तिः वर्धते।

​* अस्ट्रेलियादेशस्य एडिलेड-नगरे पैसिफिक-संस्कृत-सम्मेलनम्

​20 जुलाई 2026 तमे दिनाङ्के अस्ट्रेलियादेशस्य एडिलेड-नगरे बीएपीएस श्रीसहजानन्दस्वामिमन्दिरे पञ्चदिवसीयं पैसिफिक-संस्कृत-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने अस्ट्रेलिया-न्यूजीलैंड-देशाभ्यां सार्धत्रिशताधिकैः प्रतिनिधिभिः सहभागिता कृता, येषु 292 छात्राः आसन्। अत्र बीएपीएस सहजानन्दस्वामि-अनुसन्धान-संस्थानेन प्रचालितानाम् अन्तर्जालीय-संस्कृत-पाठ्यक्रमाणां महत्त्वं प्रदर्शितम् अस्ति। अनेन सम्मेलनेन संस्कृत-भाषायाः प्रसारः सञ्जातः।

BERJAYA अद्यतनं सुभाषितम्

पादपानां भयं वातात् पद्मानां शिशिराद् भयम्।

पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥

सु.भा. - सामान्यनीतिः (१६८/४१४)

दृढमूलाः अपि वृक्षाः वेगयुक्तस्य वायोः कारणतः पतनं प्राप्तुम् अर्हन्ति। अतः वृक्षाणां वायुतः भयम् (अपाय:) अस्ति। यदि हिमपातः भवति तर्हि कमलं नष्टं भविष्यति। शिशिरऋतौ हिमपातः भवति खलु ? अतः कमलानि शिशिरऋतुतः भीतानि भवन्ति। पूर्वं पर्वतानां पक्षाः आसन् इति, इन्द्रः तान् पक्षान् कर्तितवान् इति च कथा श्रूयते। अतः वज्रायुधतः पर्वतानां भीतिः। सज्जनाः यद्यपि यस्य कस्यापि अहितं न आचरन्ति, तथापि परपीडनस्वभावयुक्ताः दुष्टाः विना कारणम् अपि सज्जनान् पीडयितुम् अर्हन्ति। अतः सज्जनाः दुष्टजनेभ्यः भीताः भवन्ति। एवं लोके एकैकस्यापि एकैकविधं भयं भवति एव।


BERJAYA सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्